त्रिवारं स्वागतम् । अभिवादनं च ।
ॐ है संस्कृतबान्धवाः ! अयि संस्कृतप्रेमिजनाः ! हला संस्कृतसख्यः ! भवतां सर्वेषाम् इतः त्रिवारं स्वागतम् । अभिवादनं च । हो ! हो ! अतिहर्षोल्लासिता अहं संस्कृतभाषिणी सर्वेषां मेलनेन । अहं संस्कृत-सम्भाषण-प्रेमिका । भवद्भिः सह सम्भाषणाय अतीव उत्सुका । इतः अग्रे वयं सर्वे मिलित्वा एव संस्कृते सम्भाषणं कुर्मः । हे स्नेहिताः , अहम् अपि संस्कृतसम्भाषणे नूतना । अतः स्खलनशीला । किन्तु दोषाणां भयं किमर्थम् ? जन्मजात निर्दोषत्वं केन प्राप्तम् ? दोषैः एव प्रगतिः भवति । दोषः एव यशसः सोपाने प्रथमं पदम्। दोषयुतः मार्गः निर्दोषत्वं प्रति गच्छति । यः चलति सः एव स्खलति । यः स्खलति सः एव फलति । ये स्खलन्तं जनं हसन्ति ते तत्र एव तिष्ठन्ति । किन्तु स्खलन् जनः पुनः उत्थाय अग्रे गच्छति । वयं स्खलिताः भवामः पुनरुत्थानाय । तर्हि सखिनः ! विवेकानन्द-महाभागानां शब्दान् उपयुज्य वदामि , "उत्तिष्ठत , जाग्रत , प्राप्य धैर्यं (संस्क...