त्रिवारं स्वागतम् । अभिवादनं च ।










है संस्कृतबान्धवाः !  अयि संस्कृतप्रेमिजनाः !  हला संस्कृतसख्यः !
भवतां सर्वेषाम् इतः त्रिवारं स्वागतम् ।  अभिवादनं च ।

हो ! हो !  अतिहर्षोल्लासिता अहं संस्कृतभाषिणी सर्वेषां मेलनेन ।  अहं संस्कृत-सम्भाषण-प्रेमिका ।  भवद्भिः सह सम्भाषणाय अतीव उत्सुका ।  इतः अग्रे वयं सर्वे मिलित्वा एव संस्कृते सम्भाषणं कुर्मः ।   हे स्नेहिताः ,  अहम् अपि संस्कृतसम्भाषणे नूतना ।  अतः स्खलनशीला ।  किन्तु दोषाणां भयं किमर्थम् ?  जन्मजात निर्दोषत्वं केन प्राप्तम् ?  दोषैः एव प्रगतिः भवति ।  दोषः एव यशसः सोपाने प्रथमं पदम्।  दोषयुतः मार्गः निर्दोषत्वं प्रति गच्छति ।  यः चलति सः एव स्खलति ।  यः स्खलति सः एव फलति ।  ये स्खलन्तं जनं हसन्ति ते तत्र एव तिष्ठन्ति ।  किन्तु स्खलन् जनः पुनः उत्थाय अग्रे गच्छति ।  वयं स्खलिताः भवामः पुनरुत्थानाय ।

तर्हि सखिनः !  विवेकानन्द-महाभागानां शब्दान् उपयुज्य वदामि ,  "उत्तिष्ठत ,  जाग्रत ,  प्राप्य धैर्यं (संस्कृतेन एव ) संवदत ।"  अथवा लोकमान्यान् अनुसृत्य वदामि ,  "पुनश्च संस्कृतम् ।"

सदनं संस्कृतं ,  वदनं संस्कृतं ,
हसितं संस्कृतं ,  लसितं संस्कृतम् ।
क्रोधनं संस्कृतं ,  रोदनं संस्कृतं ,
संस्कृत-प्रेमिणां सर्वमेव संस्कृतम् ।

भवदीया ,
संस्कृतभाषिणी ।  

Comments

Popular posts from this blog

एकवचनम् / बहुवचनम् / ----द्वयम् ।

स्व-परिचयः । Self introduction.